Quest

Sunday, July 19, 2020

Shri ganesh stotra.

Ganesha Tejovardhan Stotra 

Ganesha Tejovardhan Stotra  is a very powerful stotra, it is in Sanskrit. It is written  in Moudgal Purana and It is composed by ShriMad Bhrushundi Muni. It is a praise of God Ganesha.



Ganesh stotra


। गणेश तेजोवर्धन स्तोत्र ।

॥ श्रीगणेशाय नमः ॥
श्रीमत्स्वानंदेशाय ब्रह्मणस्पतये नमः ।
श्रीसिद्धिबुद्धिभ्यां नमः ।
श्रीमद्भ्रुशुड्यवाच ।
नमो नमस्ते गणनाथ ढुंढे । सदा सुशांतिप्रद शांतिमूर्ते ।
अपारयोगेन च योगिनस्त्वां । भजन्ति भावेन नमो नमस्ते ॥ १ ॥
प्रजापतीनां त्वमथो विधाता । सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव । कलांशमात्रेण नमो नमस्ते ॥ २ ॥ 
क्रियात्मकांना जगदम्बिका त्वं । प्रकाशकानां रविरेव ढुंढे ।
यत्नप्रदानां च गुणेशनामा । कलांशमात्रेण नमो नमस्ते ॥ ३ ॥   
शरीरभाजां त्वमथोऽसि बिंदुः । शरीरिणां सोऽहमथो विभासि ।
स्वतोत्थकानां च सुबोधरुपः । कलांशमात्रेण नमो नमस्ते ॥ ४ ॥ 
विदेहकानामसि सांख्यरुपः । समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगेषु ह्ययोगधारी । कलांशमात्रेण नमो नमस्ते ॥ ५ ॥  
गणास्त एते गणनाथनामा । त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशांतिप्रद संस्थितोऽसि । भक्तेश भक्तिप्रिय ते नमो वै ॥ ६ ॥
गकारसिद्धिरपि मोहदात्री । णकारबुद्धीरथमोहधात्री ।
तयोर्विलासी पतिरेव नामा । गणेशश्र्वरस्त्वं च नमो नमस्ते ॥ ७ ॥
गकाररुपेण भवान् सगौणो । णकाररुपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा । योगेश भक्तेश नमो नमस्ते ॥ ८ ॥
किं वदामि गणाधीश महिमानं महाद्भुतं ।
यत्र वेदादयो भ्रांता इव जाताः प्रवर्णने ॥ ९ ॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १० ॥
किंचित्संस्कारयोगेन विश्रामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११ ॥
अहं संस्कारहीनश्र्च जात्या कैवर्तकोद्भवः ।
तत्रापि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२ ॥
एवमुक्त्वा नतं विप्रं प्रांजलि पुरतः स्थितं ।
भक्तिभावेन संतुष्टस्तमुवाच गजाननाः ॥ १३ ॥
श्रीमद् गणेश उवाच 
वरान्वरेय दास्यामि यांन्यांत्वं विप्र वांछसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रुशुंडी गद्गदा वाण्या तं जगाद गजाननम् ॥ १५ ॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः । 
तथेति तमुवाचाथ गणेशो भक्तवत्सलः ॥ १६ ॥ 
॥ इति श्रीमुन्मौद्गलोक्तं श्रीमद्भ्रुशुंडीविरचितं श्रीगाणेशतेजो वर्धनस्तोत्रं संपूर्णम् ॥
॥ श्रीमत्स्वानंदेशार्पणमस्तु ॥

Thanks for reading.Comment if you like this, suggestions are welcomed.

No comments:

Post a Comment

Thanks for visit. Please do comment if you want article on specific subject.